॥ कुवा कुवा शिशुः ॥
शिशु हु शिशु हु
कुवा कुवा शिशु हु ।
क्षीरं पिबति शिशु हु
मन्दं हसति शिशु हु ॥
गीतं श्रृणोति शिशु हु
निद्रां करोति शिशु हु ।
शिशु हु शिशु हु
कुवा कुवा शिशु हु ॥
॥ फलं ददाति ॥
आम्र फलं अंबा ददाति
कदली फलं मातुली ददाति
जंबू फलं जनकः ददाति
पनस फलं पितृव्यः ददाति
द्राक्षा फलं अग्रजा ददाति
कपित्थ फलं आवुत्तः ददाति
॥ कुत्र गच्छसि ? ॥
हे शुनक हे शुनक !
कुत्र गच्छसि ? त्वं कुत्र गच्छसि ?
स्वामि गृहं स्वामि गृहं
तत्र गच्छामि अहं तत्र गच्छामि ॥
सारमेय सारमेय !
तत्र किं कार्यं ? तव तत्र किं कार्यम् ?
रक्षणं गृह रक्षणं मम
कर्तव्यं मम कर्तव्यम् ॥