चाटु श्लोकाः (Chatu Slokas)

। चाटु श्लोकाः ।

१. गच्छामीति तु गीर्वाण्यां बोद्यात्मकपदं वद ।
    तदेवान्ध्रभाषायांयत् किमिति प्रश्नवाचकं ॥
   (उत्तरं – एमि – ஏமி?)
२. मूषवाहनविनायकं सर्वे जानान्ति न चित्रम् ।
    विनायकवाहदेवः क इति ब्रूहि हे सखे ॥
३. मारुतिश्च मारीचश्च एक एवेति मे मतम् ।
    मृगरूपत्वादन्यञ्च कारणं वद हे सखे ॥
    कटपयादि सूत्रेण दीयतामुत्तरं त्वया ॥
[ कटपयादि सूत्रानुसारं – मारुति इति पदं ६२५
  संख्यां सूचयति । एतदेन मारीचस्य च ]
४. दुराशायास्थाक्षमात् हिंसनात् च क्रमेण वै ।
    मध्याक्षरान् गृहीत्वा हि राक्षसं सृष्टवान् विधुः ॥
[   दुराशा – अक्षम – हिसनं – अत्र मध्याक्षरानि रा-क्ष-स । अत एव
    राजसानां गुणाः अपि तादृशं सन्ति इति भावः ]
५. श्रीकण्ठो निर्त्रतिश्चैव वासवो सलिलेश्वरः ।
    एतेषां प्रथमाजर – श्रीनिव।सो सदावतु ॥
[   दिग्पालकानां आद्याक्षरणि घटितं चेत्
    श्रीनिवास भवति सदेवः रक्षतु – अन्तर्लापि अत्र ]