प्रार्थना पञ्चकम् (Prarthana Panchakam)

। प्रार्थना पञ्चकम् । Audio recording

करोतु रोगशमनं श्री कृष्णो भक्तवत्सलः ।
प्रपन्नार्तिहर श्रीमान् त्वस्या सानुकम्पया   ॥ १
रक्ष रक्ष दयासिन्धो पक्षिवाहन केशव ।
गोविन्द कुरु मे देव कुक्षिरोगनिवारणम् ॥ २
दीन शरण्य दीनोऽहं त्वां विना को गतिर्मम ।
आशु नाशय मे पीडां लक्षमीरमण श्रीहरे ॥ ३
वदनां सोढुमशक्तः पाहि पाहीति रोदनम् ।
किन्न श्रुतं त्वया देव विलम्बं मास्तु रक्षणे ॥ ४
एहि एहि जगन्नाथ देहि देहि मुदं सदा ।
पाहि पाहि रमाकान्त को हि त्वया विना ॥ ५